||Sundarakanda ||

|| Sarga 3||(Summary in Sanskrit )

||om tat sat||

(PS: Summary in Sanskrit is essentially the slokas in prose order)

॥ओम् तत् सत्॥
सुंदरकांड.
अथ तृतीय सर्गः

स मेधावी मारुतात्मजः तोयद सन्निभे लंब शिखरे सत्त्वम् अस्थाय (सः) महासत्त्वः कपिकुंजरः रम्यकानन तोयाड्यां रावणपालितां लंकां विवेश)॥

सः शारदाम्बुधर प्रख्यैः भवनैः उपशोभिताम् सागरोपम निर्घोषाम् सागरा निलसेविताम् तां लंकां अभिपेदिवान्॥ सुपुष्ठ बलसंपुष्ठाम् यथैव विटपावतीं चारुतोरण निर्यूहाम् पाण्डुरद्वार तोरणाम् तां लंकां अभिपेदिवान् ॥ भुजगा चरितां गुप्तां शुभां भोगवतीं इव दृश्यां तां लंकां अभिपेदिवान् ॥ सविद्युत् घना कीर्णम् ज्योतिर्मार्ग निषेविताम् तां लंकां अभिपेदिवान्)్॥ मंदमारुत संचारां महता शातकुंभेन प्राकारेण अभिसंवृतां यथा इंद्रस्य अमरावतीं तां लंकां अभिपेदिवान्॥

किंकिणी जालघोषाभिः पताकाभीः अलंकृताम् तां लंकां सहसा आसाद्य प्राकारं अभिपेदिवान्॥ सर्वतः सजाम्बूनदमयैः द्वारैः सवैढूर्यकृत वेदिकैः पुरीं आलोक्य विस्मया विष्ठहृदयः जहर्ष च॥ सवज्र स्फटिकमुक्ताभिः समणिकुट्टिमभूषितैः तप्तहाटकनिर्यूहैः राजतामलपाण्डुरैः पुरीं आलोक्य विस्मया विष्ठहृदयः जहर्ष च)॥ सवैढूर्यकृत सोपानैः सस्फाटिकांतर पांसुभिः चारुसंजवनोपेतैः खमिवोत्पत्तैः शुभैः (पुरीं आलोक्य विस्मया विष्ठहृदयः जहर्ष च)॥ क्रौंचबर्हिण संघुष्ठैः राजहंस निषेवितैः तूर्याभरण निर्घोषैः प्रतिनादितां तां पुरीं आलोक्य विस्मया विष्ठहृदयः जहर्ष च॥ खमिवोत्पतितुं वस्वौकसाराप्रतिमां तां नगरीं वीक्ष्य हनुमान् कपिः जहर्ष॥

शुभां अनुत्तमां वृद्धियुतां राक्षसाधिपतेः तां पुरीं वीक्ष्य वीर्यवान् हनुमतः चिन्तयामास॥

उद्यतायुधधारुभिः रावण बलैः रक्षिता इयं नगरः अन्येन बलात् धर्षयितुं न शक्या॥ इयं भूमिः कुमुदांगदयोर्वापि महाकपेः सुषेणस्य मैन्दद्विविदयोरपि प्रसिद्धा भवेत्॥ इयं भूमिः विवस्वतः तनूजस्य हरेः कुषपर्वणः ऋक्षस्य केतुमालस्य मम च गतिः भवेत्॥

कपिः महाबाहुः राघवस्य पराक्रमं लक्षमणस्य विक्रान्तं च समीक्ष्य प्रीतिमान् अभवत् ॥

सः महाकपिः भास्वरैश्च दीप्तैः नष्ठतिमिरां महागृहैः तां राक्षसेन्द्रस्य नगरीं रत्न वसनोपेतां कोष्ठागारवतंसकाम् यन्त्रागारां स्तनीं ऋद्धां भूषिताम् प्रमदामिव ददर्श ॥

अथ महाबलः हरिशार्दूलं प्रविशंतं पवनात्मजं सा नगरी स्वेन रूपेण ददर्श॥ रावणपालिता सा लंका तं हरिवरं दृष्ट्वा विकृतानन दर्शना तत्र स्वयमेव उत्थिता ॥ सा लंका कपिवर्यस्य वायुसूनोः पुरस्तात् अतिष्ठत । महानदं मुंचमाना पवनात्मजं लंका अब्रवीत्॥ हे वनालय ! कः त्वं। केन कार्येण इह प्राप्तः च। यावत् ते प्राणाः धरन्ति इह यत् तत्त्वं तत् शीघ्रमेव कथयस्व॥ हे वानर! रावण समन्ततः बलैः रक्षिता अभिगुप्ता लंका प्रवेष्ठुं त्वया न शक्यं॥

अथ अग्रत स्थिताम् तां लंकां वीरः हनुमान् अब्रवीत्। यत् त्वां मां परिपृच्छसि तत्त्वं ते कथयिष्यामि॥ हे दारुणा विरूप नयना पुरद्वारे अवतिष्ठसि का त्वं । किं अर्थम् मां रुद्ध्वा निर्भर्त्ससि ॥

हनुमातस्य तत् वचनं श्रुत्वा सा कामरूपिणी लंका कृद्धा पवनात्मजं परुषं वचनं उवाच॥ अहं महात्मनः राक्षस राजस्य आज्ञाप्रतीक्षा इमाम् दुर्धर्षा नगरीं रक्षामि ॥ मां अवज्ञाय त्वया नगरीं प्रवेष्ठुं न शक्या। अद्य मया निहतः प्राणैः परित्यक्तः स्वप्स्यसे॥ हे प्लवंगम ! अहं स्वयमेव नगरी लंका । सर्वतः परिरक्षामि} एतत् ते कथितं॥

मारुतात्मजः सः हनुमान् लंकायाः वचनं श्रुत्वा यत्नवान् सः हरिश्रेष्ठः अपरं शैलः इव स्थितः॥ सः मेधावी सत्त्ववान् प्लवगर्षभः वानपुंगवः स्त्रीरूप विकृतां तां अबभाषे॥ साट्टप्राकारतोरणां लंकां द्रक्ष्यामि । इत्यर्थं इह संप्राप्तः । मे परं कौतूहलं हि॥ इह वनानि उपवनानि काननानि च मुख्यानि गृहानि सर्वतः द्रष्ठुं मे आगमनं हि॥

तस्य तत् वचनं श्रुत्वा सा कामरूपिणी भूय एव पुनः परुषाक्षरं वाक्यं बभाषे॥ हे दुर्बुद्धे नराधमा मां अनिर्जित्य राक्षसेश्वर पालितां इयं पुरीं अद्य ते द्रष्ठुं न शक्यं॥ ततः स कपि शार्दूलः तां निशाचरीम् पुनः उवाच ॥हे भद्रे इमां पुरीं दृष्ट्वा यथागतं पुनः यास्ये॥

ततः भयावहं महानादं कृत्वा सा लंका वेगिता तलेन वानरश्रेष्ठं ताडायामास ॥ ततः लंकया भृशं ताडितः कपिशार्दूलः वीर्यवान् मारुतात्मजः सु महानादं ननाद॥ ततः सः हनुमान् क्रोधमूर्च्छितःवाहस्तस्य अंगुळीःसंवर्तयामास । एनाम् मुष्टिना अभिजघान॥ हनुमतः स्त्री च इति मन्यमानेन स्वयं अतिक्रोधः न कृतः। सा निशाचरी तु तेन प्रहारेण विह्वलांगी विकृतानन दर्शना सहसा भूमौ पपात ॥ ततः प्राज्ञः विनिपातितां तां दृष्ट्वा तां स्त्रियं तु मन्यमानः कृपां चकार ।

ततः सा लंका भृश संविग्ना गद् गदाक्षरं अगर्वितं प्लवंगमम् हनूमंतं उवाच। हे महाबाहो प्रसीद । हरिसत्तम त्रायस्व॥ सौम्य सत्त्ववंतः महाबलाः समये तिष्ठंति । प्लवंगम अहं तु स्वयमेव नगरी लंका ॥ हे वीर महाबल अहं त्वया विक्रमेण निर्जिता। हरीश्वरा इदं तु तथ्यं शृणुवै॥ पुरा स्वयंभुवा मम दत्तं वरदानं यथा । यदा त्वां कश्चित् वानरः विक्रमात् वशमानयेत् तदा रक्षसां भयमागयेत् (इति) त्वया हि विज्ञेयं ॥ हे सौम्य स समयः मे तव दर्शनात् संप्राप्तः॥ स्वयंभूविहितः । सत्यः। तस्य व्यतिक्रमः न अस्ति॥ दुरात्मनः राज्ञ्जः रावणस्य सर्वेषां रक्षसां च सीतानिमित्तं विनाशः समुपागतः॥ हे हरिश्रेष्ठ ततः रावण पालितां पुरीं इह प्रविश्य यानि यानि कार्याणि वांच्छसि तत् सर्वकार्याणि विधत्स्व॥ हे हरीश्वर ! शापोपहतं राक्षसमुख्य पालितां इदं शुभां पुरीं यदृच्छया प्रविश्य त्वं सर्वत्र गतः यथासुखं सतीं जनकात्मजां विमार्गस्व॥ इति॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे तृतीय स्सर्गः॥
समाप्तं॥

॥ओम् तत् सत् ॥

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

|| om tat sat||

 

 

 

 

 

 

 

|| Om tat sat ||